Sukta 10.44
आ यात्विन्द्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान् । प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन ॥
आ या॒त्विन्द्र॒: स्वप॑ति॒र्मदा॑य॒ यो धर्म॑णा तूतुजा॒नस्तुवि॑ष्मान् । प्र॒त्व॒क्षा॒णो अति॒ विश्वा॒ सहां॑स्यपा॒रेण॑ मह॒ता वृष्ण्ये॑न ॥
ā́ yātvíndraḥ svápatiḥ mádāya yó dhármaṇā tūtujānás túviṣmān | prá-tvakṣāṇó áti víśvā sáhāṃsy apāréṇa mahatā́ vṛ́ṣṇyena ||
Let Indra come—lord of his own mastery—for the ecstasy; he who by the right law rushes forward in his mighty force, surpassing all resistances by an immeasurable, vast heroic power.
आ । या॒तु॒ । इन्द्रः॑ । स्वऽप॑तिः । मदा॑य । यः । धर्म॑णा । तू॒तु॒जा॒नः । तुवि॑ष्मान् । प्र॒ऽत्व॒क्षा॒णः । अति॑ । विश्वा॑ । सहां॑सि । अ॒पा॒रेण॑ । म॒ह॒ता । वृष्ण्ये॑न ॥आ । यातु । इन्द्रः । स्वपतिः । मदाय । यः । धर्मणा । तूतुजानः । तुविष्मान् । प्रत्वक्षाणः । अति । विश्वा । सहांसि । अपारेण । महता । वृष्ण्येन ॥ā | yātu | indraḥ | sva-patiḥ | madāya | yaḥ | dharmaṇā | tūtujānaḥ | tuviṣmān | pra-tvakṣāṇaḥ | ati | viśvā | sahāṃsi | apāreṇa | mahatā | vṛṣṇyena