Sukta 10.44
बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः । इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥
बृह॒स्पति॑र्न॒: परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः । इन्द्र॑: पु॒रस्ता॑दु॒त म॑ध्य॒तो न॒: सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥
bṛ́haspátir naḥ pári pātu paścā́d utóttarasmād ádharād aghāyóḥ | índraḥ purástād utá madhyató naḥ sákhā sákhibhyo vári-vaḥ kṛṇotu ||
May Brihaspati guard us from behind and from above and below against the forces of harm. May Indra from the front and from the midst, the Friend, create for his friends a wide space of freedom and secure passage.
बृ॒हस्पतिः॑ । नः॒ । परि॑ । पा॒तु॒ । प॒श्चात् । उ॒त । उत्ऽत॑रस्मात् । अध॑रात् । अ॒घ॒ऽयोः । इन्द्रः॑ । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒तः । नः॒ । सखा॑ । सखि॑ऽभ्यः । वरि॑ऽवः । कृ॒णो॒तु॒ ॥बृहस्पतिः । नः । परि । पातु । पश्चात् । उत । उत्तरस्मात् । अधरात् । अघयोः । इन्द्रः । पुरस्तात् । उत । मध्यतः । नः । सखा । सखिभ्यः । वरिवः । कृणोतु ॥bṛhaspatiḥ | naḥ | pari | pātu | paścāt | uta | ut-tarasmāt | adharāt | agha-yoḥ | indraḥ | purastāt | uta | madhyataḥ | naḥ | sakhā | sakhi-bhyaḥ | vari-vaḥ | kṛṇotu