Sukta 10.42
प्र यमन्तर्वृषसवासो अग्मन्तीव्राः सोमा बहुलान्तास इन्द्रम् । नाह दामानं मघवा नि यंसन्नि सुन्वते वहति भूरि वामम् ॥
प्र यम॒न्तर्वृ॑षस॒वासो॒ अग्म॑न्ती॒व्राः सोमा॑ बहु॒लान्ता॑स॒ इन्द्र॑म् । नाह॑ दा॒मानं॑ म॒घवा॒ नि यं॑स॒न्नि सु॑न्व॒ते व॑हति॒ भूरि॑ वा॒मम् ॥
prá yám antár vṛṣa-savā́so ágman tīvrā́ḥ sómā bahulā́ntāsa índram | nā́ha dāmā́naṃ maghávā ní yaṃsat ní sunvaté vahati bhū́ri vāmám ||
When the strong Soma-pressings, intense and abundant, enter within toward Indra, then Maghavan does not hold back the gift; he carries down to the presser a vast and desirable good—an overflowing plenitude.
प्र । यम् । अ॒न्तः । वृ॒ष॒ऽस॒वासः॑ । अग्म॑न् । ती॒व्राः । सोमाः॑ । ब॒हु॒लऽअ॑न्तासः । इन्द्र॑म् । न । अह॑ । दा॒मान॑म् । म॒घऽवा॑ । नि । यं॒स॒त् । नि । सु॒न्व॒ते । व॒ह॒ति॒ । भूरि॑ । वा॒मम् ॥प्र । यम् । अन्तः । वृषसवासः । अग्मन् । तीव्राः । सोमाः । बहुलअन्तासः । इन्द्रम् । न । अह । दामानम् । मघवा । नि । यंसत् । नि । सुन्वते । वहति । भूरि । वामम् ॥pra | yam | antaḥ | vṛṣa-savāsaḥ | agman | tīvrāḥ | somāḥ | bahula-antāsaḥ | indram | na | aha | dāmānam | magha-vā | ni | yaṃsat | ni | sunvate | vahati | bhūri | vāmam