Sukta 10.42
आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन । अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥
आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शम्ब॑: पुरुहूत॒ तेन॑ । अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र कृ॒धी धियं॑ जरि॒त्रे वाज॑रत्नाम् ॥
ārā́c cháttrum ápa bādhasva dū́ram ugró yáḥ śámbhaḥ puru-hūta téna | asmè dhehi yáva-mad gó-mad indra kṛdhí dhíyaṃ jaritré vā́ja-ratnām ||
Drive the enemy away, far from us; O fierce one, O much-invoked, do it by that power of your beneficence. Set in us the plenitude with grain and with rays of light; and fashion for the singer an inspired thought that is a treasure of vāja—fullness of force.
आ॒रात् । शत्रु॑म् । अप॑ । बा॒ध॒स्व॒ । दू॒रम् । उ॒ग्रः । यः । शम्बः॑ । पु॒रु॒ऽहू॒त॒ । तेन॑ । अ॒स्मे इति॑ । धे॒हि॒ । यव॑ऽमत् । गोऽम॑त् । इ॒न्द्र॒ । कृ॒धि । धिय॑म् । ज॒रि॒त्रे । वाज॑ऽरत्नाम् ॥आरात् । शत्रुम् । अप । बाधस्व । दूरम् । उग्रः । यः । शम्बः । पुरुहूत । तेन । अस्मे इति । धेहि । यवमत् । गोमत् । इन्द्र । कृधि । धियम् । जरित्रे । वाजरत्नाम् ॥ārāt | śatrum | apa | bādhasva | dūram | ugraḥ | yaḥ | śambaḥ | puru-hūta | tena | asme iti | dhehi | yava-mat | go--mat | indra | kṛdhi | dhiyam | jaritre | vāja-ratnām