Sukta 10.42
उत प्रहामतिदीव्या जयाति कृतं यच्छ्वघ्नी विचिनोति काले । यो देवकामो न धना रुणद्धि समित्तं राया सृजति स्वधावान् ॥
उ॒त प्र॒हाम॑ति॒दीव्या॑ जयाति कृ॒तं यच्छ्व॒घ्नी वि॑चि॒नोति॑ का॒ले । यो दे॒वका॑मो॒ न धना॑ रुणद्धि॒ समित्तं रा॒या सृ॑जति स्व॒धावा॑न् ॥
utá pra-hā́m ati-dī́vyā jayāti kṛtáṃ yác chvá-ghnī vi-cinóti kālé | yó deva-kā́mo ná dhánā ruṇaddhí sam íd táṃ rāyā́ sṛjati svadhā́vān ||
And even one who has overplayed the throw can win again when, at the right time, the discerning power gathers what is truly made. He who desires the gods does not block the riches; the self-lawed one sets him free into fullness of being—releasing him together with abundance.
उ॒त । प्र॒ऽहाम् । अ॒ति॒ऽदीव्य॑ । ज॒या॒ति॒ । कृ॒तम् । यत् । श्व॒ऽघ्नी । वि॒ऽचि॒नोति॑ । का॒ले । यः । दे॒वऽका॑मः । न । धना॑ । रु॒ण॒द्धि॒ । सम् । इत् । तम् । रा॒या । सृ॒ज॒ति॒ । स्व॒धाऽवा॑न् ॥उत । प्रहाम् । अतिदीव्य । जयाति । कृतम् । यत् । श्वघ्नी । विचिनोति । काले । यः । देवकामः । न । धना । रुणद्धि । सम् । इत् । तम् । राया । सृजति । स्वधावान् ॥uta | pra-hām | ati-dīvya | jayāti | kṛtam | yat | śva-ghnī | vi-cinoti | kāle | yaḥ | deva-kāmaḥ | na | dhanā | ruṇaddhi | sam | it | tam | rāyā | sṛjati | svadhāvān