Sukta 10.42
यस्मिन्वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे । आराच्चित्सन्भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम् ॥
यस्मि॑न्व॒यं द॑धि॒मा शंस॒मिन्द्रे॒ यः शि॒श्राय॑ म॒घवा॒ काम॑म॒स्मे । आ॒राच्चि॒त्सन्भ॑यतामस्य॒ शत्रु॒र्न्य॑स्मै द्यु॒म्ना जन्या॑ नमन्ताम् ॥
yásmin vayaṃ dadhimá śáṃsam índre yáḥ śiśrā́ya maghávā kā́mam asmè | ārā́c cit sán bhayatām asyá śátrur nyàsmai dyumnā́ janyā́ namantām ||
In whom we set our affirmation for Indra—he, Maghavan, who has leaned toward our desire—let even the distant enemy fear him; and let the human energies of splendor bow down and arrange themselves for him.
यस्मि॑न् । व॒यम् । द॒धि॒म । शंस॑म् । इन्द्रे॑ । यः । शि॒श्राय॑ । म॒घऽवा॑ । काम॑म् । अ॒स्मे इति॑ । आ॒रात् । चि॒त् । सन् । भ॒य॒ता॒म् । अ॒स्य॒ । शत्रुः॑ । नि । अ॒स्मै॒ । द्यु॒म्ना । जन्या॑ । न॒म॒न्ता॒म् ॥यस्मिन् । वयम् । दधिम । शंसम् । इन्द्रे । यः । शिश्राय । मघवा । कामम् । अस्मे इति । आरात् । चित् । सन् । भयताम् । अस्य । शत्रुः । नि । अस्मै । द्युम्ना । जन्या । नमन्ताम् ॥yasmin | vayam | dadhima | śaṃsam | indre | yaḥ | śiśrāya | magha-vā | kāmam | asme iti | ārāt | cit | san | bhayatām | asya | śatruḥ | ni | asmai | dyumnā | janyā | namantām