Sukta 10.42
धनं न स्यन्द्रं बहुलं यो अस्मै तीव्रान्त्सोमाँ आसुनोति प्रयस्वान् । तस्मै शत्रून्त्सुतुकान्प्रातरह्नो नि स्वष्ट्रान्युवति हन्ति वृत्रम् ॥
धनं॒ न स्य॒न्द्रं ब॑हु॒लं यो अ॑स्मै ती॒व्रान्त्सोमाँ॑ आसु॒नोति॒ प्रय॑स्वान् । तस्मै॒ शत्रू॑न्त्सु॒तुका॑न्प्रा॒तरह्नो॒ नि स्वष्ट्रा॑न्यु॒वति॒ हन्ति॑ वृ॒त्रम् ॥
dhánaṃ na syándraṃ bahuláṃ yó asmai tīvrā́nt somā́ṃ āsunóti práyasvān | tásmai śátrūn su-túkān prā́tar áhno ní svaṣṭrā́n yúvati hánti vṛtrám ||
Like abundant wealth flowing forth, he who with right striving presses for him the intense Soma—on him Indra at the day’s dawn lets fall the well-struck enemies; the youthful force smites the Vṛtra, the obstruction, and clears the way.
धन॑म् । न । स्प॒न्द्रम् । ब॒हु॒लम् । यः । अ॒स्मै॒ । ती॒व्रान् । सोमा॑न् । आ॒ऽसु॒नोति॑ । प्रय॑स्वान् । तस्मै॑ । शत्रू॑न् । सु॒ऽतुका॑न् । प्रा॒तः । अह्नः॑ । नि । सु॒ऽअष्ट्रा॑न् । यु॒वति॑ । हन्ति॑ । वृ॒त्रम् ॥धनम् । न । स्पन्द्रम् । बहुलम् । यः । अस्मै । तीव्रान् । सोमान् । आसुनोति । प्रयस्वान् । तस्मै । शत्रून् । सुतुकान् । प्रातः । अह्नः । नि । सुअष्ट्रान् । युवति । हन्ति । वृत्रम् ॥dhanam | na | spandram | bahulam | yaḥ | asmai | tīvrān | somān | āsunoti | prayasvān | tasmai | śatrūn | su-tukān | prātaḥ | ahnaḥ | ni | su-aṣṭrān | yuvati | hanti | vṛtram