Sukta 10.42
त्वां जना ममसत्येष्विन्द्र संतस्थाना वि ह्वयन्ते समीके । अत्रा युजं कृणुते यो हविष्मान्नासुन्वता सख्यं वष्टि शूरः ॥
त्वां जना॑ ममस॒त्येष्वि॑न्द्र संतस्था॒ना वि ह्व॑यन्ते समी॒के । अत्रा॒ युजं॑ कृणुते॒ यो ह॒विष्मा॒न्नासु॑न्वता स॒ख्यं व॑ष्टि॒ शूर॑: ॥
tvā́ṃ jánā mama-satyéṣv indra saṃtasthānā́ ví hvayante samīké | átrā yújaṃ kṛṇute yó havíṣmān nā́sunvatā sakhyáṃ vaṣṭi śū́raḥ ||
Men call you, O Indra, in the gatherings where the truth of the soul is tested and affirmed. Here he becomes yoked to you who offers the oblation; but the heroic power does not choose friendship with one who does not press (the Soma), who does not distill the delight.
त्वाम् । जनाः॑ । म॒म॒ऽस॒त्येषु॑ । इ॒न्द्र॒ । स॒म्ऽत॒स्था॒नाः । वि । ह्व॒य॒न्ते॒ । स॒म्ऽई॒के । अत्र॑ । युज॑म् । कृ॒णु॒ते॒ । यः । ह॒विष्मा॑न् । न । असु॑न्वता । स॒ख्यम् । व॒ष्टि॒ । शूरः॑ ॥त्वाम् । जनाः । ममसत्येषु । इन्द्र । सम्तस्थानाः । वि । ह्वयन्ते । सम्ईके । अत्र । युजम् । कृणुते । यः । हविष्मान् । न । असुन्वता । सख्यम् । वष्टि । शूरः ॥tvām | janāḥ | mama-satyeṣu | indra | sam-tasthānāḥ | vi | hvayante | sam-īke | atra | yujam | kṛṇute | yaḥ | haviṣmān | na | asunvatā | sakhyam | vaṣṭi | śūraḥ