Sukta 10.41
प्रातर्युजं नासत्याधि तिष्ठथः प्रातर्यावाणं मधुवाहनं रथम् । विशो येन गच्छथो यज्वरीर्नरा कीरेश्चिद्यज्ञं होतृमन्तमश्विना ॥
प्रा॒त॒र्युजं॑ नास॒त्याधि॑ तिष्ठथः प्रात॒र्यावा॑णं मधु॒वाह॑नं॒ रथ॑म् । विशो॒ येन॒ गच्छ॑थो॒ यज्व॑रीर्नरा की॒रेश्चि॑द्य॒ज्ञं होतृ॑मन्तमश्विना ॥
prātar-yújaṃ nāsatyā́dhi tiṣṭhathaḥ prātar-yā́vāṇaṃ madhu-vā́hanaṃ rátham | víśo yéna gácchatho yájvarīr narā kīréś cid yajñáṃ hótṛ-mantam aśvinā ||
O Nāsatyas, mount at dawn the yoke that is ready for the early joining; mount the honey-bearing chariot that comes at dawn. By it you move among the peoples and the ardent offerers, O two strong ones; even for the singer you make the sacrifice rich in the power of the invoking Word, O Aśvins.
प्रा॒तः॒ऽयुज॑म् । ना॒स॒त्या॒ । अधि॑ । ति॒ष्ठ॒थः॒ । प्रा॒तः॒ऽयावा॑नम् । म॒धु॒ऽवाह॑नम् । रथ॑म् । विशः॑ । येन॑ । गच्छ॑तः । यज्व॑रीः । न॒रा॒ । की॒रेः । चि॒त् । य॒ज्ञम् । होतृ॑ऽमन्तम् । अ॒श्वि॒ना॒ ॥प्रातःयुजम् । नासत्या । अधि । तिष्ठथः । प्रातःयावानम् । मधुवाहनम् । रथम् । विशः । येन । गच्छतः । यज्वरीः । नरा । कीरेः । चित् । यज्ञम् । होतृमन्तम् । अश्विना ॥prātaḥ-yujam | nāsatyā | adhi | tiṣṭhathaḥ | prātaḥ-yāvānam | madhu-vāhanam | ratham | viśaḥ | yena | gacchataḥ | yajvarīḥ | narā | kīreḥ | cit | yajñam | hotṛ-mantam | aśvinā