Sukta 10.41
अध्वर्युं वा मधुपाणिं सुहस्त्यमग्निधं वा धृतदक्षं दमूनसम् । विप्रस्य वा यत्सवनानि गच्छथोऽत आ यातं मधुपेयमश्विना ॥
अ॒ध्व॒र्युं वा॒ मधु॑पाणिं सु॒हस्त्य॑म॒ग्निधं॑ वा धृ॒तद॑क्षं॒ दमू॑नसम् । विप्र॑स्य वा॒ यत्सव॑नानि॒ गच्छ॒थोऽत॒ आ या॑तं मधु॒पेय॑मश्विना ॥
adhvaryúṃ vā́ mádhu-pāṇiṃ su-hástyam agnídhaṃ vā dhṛtá-dakṣaṃ damū́nasaṃ | víprasya vā́ yát savanā́ni gácchatho 'tá ā́ yātaṃ madhu-péyam aśvinā ||
Whether it is the Adhvaryu with honey in his hands and skill in his grasp, or the Agnīdh with firm capacity and right dwelling—whenever you go to the pressings of the inspired one, then come here, O Aśvins, to drink the honey (the delight of the offering).
अ॒ध्व॒र्युम् । वा॒ । मधु॑ऽपाणिम् । सु॒ऽहस्त्य॑म् । अ॒ग्निध॑म् । वा॒ । धृ॒तऽद॑क्षम् । दमू॑नसम् । विप्र॑स्य । वा॒ । यत् । सव॑नानि । गच्छ॑थः । अतः॑ । आ । या॒त॒म् । म॒धु॒ऽपेय॑म् । अ॒श्वि॒न्चा ॥अध्वर्युम् । वा । मधुपाणिम् । सुहस्त्यम् । अग्निधम् । वा । धृतदक्षम् । दमूनसम् । विप्रस्य । वा । यत् । सवनानि । गच्छथः । अतः । आ । यातम् । मधुपेयम् । अश्विन्चा ॥adhvaryum | vā | madhu-pāṇim | su-hastyam | agnidham | vā | dhṛta-dakṣam | damūnasam | viprasya | vā | yat | savanāni | gacchathaḥ | ataḥ | ā | yātam | madhu-peyam | aśvincā