Sukta 10.40
जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घामनु प्रसितिं दीधियुर्नरः । वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे ॥
जी॒वं रु॑दन्ति॒ वि म॑यन्ते अध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नर॑: । वा॒मं पि॒तृभ्यो॒ य इ॒दं स॑मेरि॒रे मय॒: पति॑भ्यो॒ जन॑यः परि॒ष्वजे॑ ॥
jīvám rudanti ví mayante adhvaré dīrghā́m ánu prásitiṃ dīdhiyúr náraḥ | vāmáṃ pitṛ́bhyó yá idáṃ sameriré máyáḥ pátibhyo jánayaḥ pariṣváje ||
They weep for the living, and in the sacrifice they are transformed; the men set their thought along the long out-going path. A dear thing to the Fathers are those who thus impel this movement; the wives embrace their lords in joy.
जी॒वम् । रु॒द॒न्ति॒ । वि । म॒य॒न्ते॒ । अ॒ध्व॒रे । दी॒र्घाम् । अनु॑ । प्रऽसि॑तिम् । दी॒धि॒युः॒ । नरः॑ । वा॒मम् । पि॒तृऽभ्यः॑ । ये । इ॒दम् । स॒म्ऽए॒रि॒रे । मयः॑ । पति॑ऽभ्यः । जन॑यः । प॒रि॒ऽस्वजे॑ ॥जीवम् । रुदन्ति । वि । मयन्ते । अध्वरे । दीर्घाम् । अनु । प्रसितिम् । दीधियुः । नरः । वामम् । पितृभ्यः । ये । इदम् । सम्एरिरे । मयः । पतिभ्यः । जनयः । परिस्वजे ॥jīvam | rudanti | vi | mayante | adhvare | dīrghām | anu | pra-sitim | dīdhiyuḥ | naraḥ | vāmam | pitṛ-bhyaḥ | ye | idam | sam-erire | mayaḥ | pati-bhyaḥ | janayaḥ | pari-svaje