Sukta 10.4
तनूत्यजेव तस्करा वनर्गू रशनाभिर्दशभिरभ्यधीताम् । इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथं न शुचयद्भिरङ्गैः ॥
त॒नू॒त्यजे॑व॒ तस्क॑रा वन॒र्गू र॑श॒नाभि॑र्द॒शभि॑र॒भ्य॑धीताम् । इ॒यं ते॑ अग्ने॒ नव्य॑सी मनी॒षा यु॒क्ष्वा रथं॒ न शु॒चय॑द्भि॒रङ्गै॑: ॥
tanūtyájā iva táskarā vanargū́ raśanā́bhir dáśabhir abhy-á dhītām | iyáṃ te agne návyasī manīṣā́ yukṣvā́ ráthaṃ na śucáyadbhir áṅgaiḥ ||
As thieves, casting off their own bodies, the forest-roamers are bound about with ten straps—so (too) this thought of mine is set upon you. O Agni, this is for you a newer insight: yoke it like a chariot with shining limbs (powers).
त॒नू॒त्यजा॑ऽइव । तस्क॑रा । व॒न॒र्गू इति॑ । र॒श॒नाभिः॑ । द॒शऽभिः॑ । अ॒भि । अ॒धी॒ता॒म् । इ॒यम् । ते॒ । अ॒ग्ने॒ । नव्य॑सी । म॒नी॒षा । यु॒क्ष्व । रथ॑म् । न । शु॒चय॑त्ऽभिः । अङ्गैः॑ ॥तनूत्यजाइव । तस्करा । वनर्गू इति । रशनाभिः । दशभिः । अभि । अधीताम् । इयम् । ते । अग्ने । नव्यसी । मनीषा । युक्ष्व । रथम् । न । शुचयत्भिः । अङ्गैः ॥tanūtyajāiva | taskarā | vanargū iti | raśanābhiḥ | daśa-bhiḥ | abhi | adhītām | iyam | te | agne | navyasī | manīṣā | yukṣva | ratham | na | śucayat-bhiḥ | aṅgaiḥ