Sukta 10.4
कूचिज्जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः । अस्नातापो वृषभो न प्र वेति सचेतसो यं प्रणयन्त मर्ताः ॥
कूचि॑ज्जायते॒ सन॑यासु॒ नव्यो॒ वने॑ तस्थौ पलि॒तो धू॒मके॑तुः । अ॒स्ना॒तापो॑ वृष॒भो न प्र वे॑ति॒ सचे॑तसो॒ यं प्र॒णय॑न्त॒ मर्ता॑: ॥
kū́cij jāyate sánayāsu návyo váne tasthau palitó dhū́ma-ketuḥ | asnātā́po vṛṣabhó na prá veti sácetaso yáṃ prá-nayanta mártāḥ ||
Somewhere he is born anew in the ancient births; in the forest he stands, grey, with a banner of smoke. Unbathed by the waters, he advances like a bull—he whom the awakened mortals lead forward (for the work).
कूऽचि॑त् । जा॒य॒ते॒ । सन॑यासु । नव्यः॑ । वने॑ । त॒स्थौ॒ । प॒लि॒तः । धू॒मऽके॑तुः । अ॒स्ना॒ता । आपः॑ । वृ॒ष॒भः । न । प्र । वे॒ति॒ । सऽचे॑तसः । यम् । प्र॒ऽनय॑न्त । मर्ताः॑ ॥कूचित् । जायते । सनयासु । नव्यः । वने । तस्थौ । पलितः । धूमकेतुः । अस्नाता । आपः । वृषभः । न । प्र । वेति । सचेतसः । यम् । प्रनयन्त । मर्ताः ॥kū-cit | jāyate | sanayāsu | navyaḥ | vane | tasthau | palitaḥ | dhūma-ketuḥ | asnātā | āpaḥ | vṛṣabhaḥ | na | pra | veti | sa-cetasaḥ | yam | pra-nayanta | matārḥ