Sukta 10.4
ब्रह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत् । रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुच्छन् ॥
ब्रह्म॑ च ते जातवेदो॒ नम॑श्चे॒यं च॒ गीः सद॒मिद्वर्ध॑नी भूत् । रक्षा॑ णो अग्ने॒ तन॑यानि तो॒का रक्षो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥
bráhma ca te jāta-vedo námaś ceyáṃ ca gī́ḥ sádám íd várdhanī bhūt | rákṣā ṇo agne tánayāni tokā́ rákṣota nas tanvò ápra-yucchan ||
For you, O Jātavedas, are the sacred word and the reverence, and this song—may it ever become an increaser. Guard for us, O Agni, our children and our continuities; guard also our bodies, that they may not fall away from the right holding.
ब्रह्म॑ । च॒ । ते॒ । जा॒त॒ऽवे॒दः॒ । नमः॑ । च॒ । इ॒यम् । च॒ । गीः । सद॑म् । इत् । वर्ध॑नी । भू॒त् । रक्ष॑ । नः॒ । अ॒ग्ने॒ । तन॑यानि । तो॒का । रक्ष॑ । उ॒त । नः॒ । त॒न्वः॑ । अप्र॑ऽयुच्छन् ॥ब्रह्म । च । ते । जातवेदः । नमः । च । इयम् । च । गीः । सदम् । इत् । वर्धनी । भूत् । रक्ष । नः । अग्ने । तनयानि । तोका । रक्ष । उत । नः । तन्वः । अप्रयुच्छन् ॥brahma | ca | te | jāta-vedaḥ | namaḥ | ca | iyam | ca | gīḥ | sadam | it | vardhanī | bhūt | rakṣa | naḥ | agne | tanayāni | tokā | rakṣa | uta | naḥ | tanvaḥ | apra-yucchan