Sukta 10.4
यं त्वा जनासो अभि संचरन्ति गाव उष्णमिव व्रजं यविष्ठ । दूतो देवानामसि मर्त्यानामन्तर्महाँश्चरसि रोचनेन ॥
यं त्वा॒ जना॑सो अ॒भि सं॒चर॑न्ति॒ गाव॑ उ॒ष्णमि॑व व्र॒जं य॑विष्ठ । दू॒तो दे॒वाना॑मसि॒ मर्त्या॑नाम॒न्तर्म॒हाँश्च॑रसि रोच॒नेन॑ ॥
yám tvā jánāso abhí saṁ-cáranti gā́va uṣṇám iva vrajáṁ yaviṣṭha | dū́to devā́nām asi mártyānām antár mahā́m̐ś cárasi rocanéna ||
O youngest, whom the peoples gather around as cows gather to the warm stall— you are the messenger of the gods for mortals; vast within, you move through the luminous realm, carrying the light of the worlds into us.
यम् । त्वा॒ । जना॑सः । अ॒भि । स॒म्ऽचर॑न्ति । गावः॑ । उ॒ष्णम्ऽइ॑व । व्र॒जम् । य॒वि॒ष्ठ॒ । दू॒तः । दे॒वाना॑म् । अ॒सि॒ । मर्त्या॑नाम् । अ॒न्तः । म॒हान् । च॒र॒सि॒ । रो॒च॒नेन॑ ॥यम् । त्वा । जनासः । अभि । सम्चरन्ति । गावः । उष्णम्इव । व्रजम् । यविष्ठ । दूतः । देवानाम् । असि । मर्त्यानाम् । अन्तः । महान् । चरसि । रोचनेन ॥yam | tvā | janāsaḥ | abhi | sam-caranti | gāvaḥ | uṣṇam-iva | vrajam | yaviṣṭha | dūtaḥ | devānām | asi | martyānām | antaḥ | mahān | carasi | rocanena