Sukta 10.4
शिशुं न त्वा जेन्यं वर्धयन्ती माता बिभर्ति सचनस्यमाना । धनोरधि प्रवता यासि हर्यञ्जिगीषसे पशुरिवावसृष्टः ॥
शिशुं॒ न त्वा॒ जेन्यं॑ व॒र्धय॑न्ती मा॒ता बि॑भर्ति सचन॒स्यमा॑ना । धनो॒रधि॑ प्र॒वता॑ यासि॒ हर्य॒ञ्जिगी॑षसे प॒शुरि॒वाव॑सृष्टः ॥
śíśuṃ na tvā jényam vardháyantī mātā bibharti sacanasyámānā | dhánoḥ ádhi prá-vatā yāsi háryañ jigī́ṣase paśúr ivā́va-sṛṣṭaḥ ||
As a mother fosters and bears her growing child, so she upholds you, the victorious power, consenting to your companionship. From the bow you go forth along the descending course, eager to conquer, released like a beast set free (to its own force).
शिशु॑म् । न । त्वा॒ । जेन्य॑म् । व॒र्धय॑न्ती । मा॒ता । बि॒भ॒र्ति॒ । स॒च॒न॒स्यमा॑ना । धनोः॑ । अधि॑ । प्र॒ऽवता॑ । या॒सि॒ । हर्य॑म् । जगी॑षसे । प॒शुःऽइ॑व । अव॑ऽसृष्टः ॥शिशुम् । न । त्वा । जेन्यम् । वर्धयन्ती । माता । बिभर्ति । सचनस्यमाना । धनोः । अधि । प्रवता । यासि । हर्यम् । जगीषसे । पशुःइव । अवसृष्टः ॥śiśum | na | tvā | jenyam | vardhayantī | mātā | bibharti | sacanasyamānā | dhanoḥ | adhi | pra-vatā | yāsi | haryam | jagīṣase | paśuḥ-iva | ava-sṛṣṭaḥ