Sukta 10.39
युवं विप्रस्य जरणामुपेयुषः पुनः कलेरकृणुतं युवद्वयः । युवं वन्दनमृश्यदादुदूपथुर्युवं सद्यो विश्पलामेतवे कृथः ॥
यु॒वं विप्र॑स्य जर॒णामु॑पे॒युष॒: पुन॑: क॒लेर॑कृणुतं॒ युव॒द्वय॑: । यु॒वं वन्द॑नमृश्य॒दादुदू॑पथुर्यु॒वं स॒द्यो वि॒श्पला॒मेत॑वे कृथः ॥
yuváṃ víprasya jaraṇā́m upa-īyúṣaḥ púnar ití kaléḥ akṛṇutaṃ yuvád váyaḥ | yuváṃ vándanam ṛśya-dā́d úd ūpathur yuváṃ sadyó viśpálām étave kṛ́thaḥ ||
You restored youth again to the singer who had come to old age; you made him young once more. You lifted up Vandana from the wolf’s giving (from the devouring fate); you made Viśpalā at once able to go—thus you restore the power to move forward.
यु॒वम् । विप्र॑स्य । ज॒र॒णाम् । उ॒प॒ऽई॒युषः॑ । पुन॒रिति॑ । क॒लेः । अ॒कृ॒णु॒त॒म् । यु॒व॒त् । वयः॑ । यु॒वम् । वन्द॑नम् । ऋ॒श्य॒ऽदात् । उत् । ऊ॒प॒थुः॒ । यु॒वम् । स॒द्यः । वि॒श्पला॑म् । एत॑वे । कृ॒थः॒ ॥युवम् । विप्रस्य । जरणाम् । उपईयुषः । पुनरिति । कलेः । अकृणुतम् । युवत् । वयः । युवम् । वन्दनम् । ऋश्यदात् । उत् । ऊपथुः । युवम् । सद्यः । विश्पलाम् । एतवे । कृथः ॥yuvam | viprasya | jaraṇām | upa-īyuṣaḥ | punariti | kaleḥ | akṛṇutam | yuvat | vayaḥ | yuvam | vandanam | ṛśya-dāt | ut | ūpathuḥ | yuvam | sadyaḥ | viśpalām | etave | kṛthaḥ