Sukta 10.39
युवं रथेन विमदाय शुन्ध्युवं न्यूहथुः पुरुमित्रस्य योषणाम् । युवं हवं वध्रिमत्या अगच्छतं युवं सुषुतिं चक्रथुः पुरंधये ॥
यु॒वं रथे॑न विम॒दाय॑ शु॒न्ध्युवं॒ न्यू॑हथुः पुरुमि॒त्रस्य॒ योष॑णाम् । यु॒वं हवं॑ वध्रिम॒त्या अ॑गच्छतं यु॒वं सुषु॑तिं चक्रथु॒: पुरं॑धये ॥
yuváṃ ráthena vi-madā́ya śundhyúvam ní ūhathuḥ puru-mítrasya yóṣaṇām | yuváṃ hávaṃ vadhri-matyā́ á-gacchataṃ yuváṃ su-sútiṃ cakrathuḥ puráṃ-dhaye ||
You brought in your chariot to Vimadā the purified maiden, the woman of Purumitra. You came to the call of Vadhryaśvā’s wife; you made a good birth for Purandhī—thus your aid enters even the tangled human fate.
यु॒वम् । रथे॑न । वि॒ऽम॒दाय॑ । शु॒न्ध्युव॑म् । नि । ऊ॒ह॒थुः॒ । पु॒रु॒ऽमि॒त्रस्य॑ । योष॑णम् । यु॒वम् । हव॑म् । व॒ध्रि॒ऽम॒त्याः । अ॒ग॒च्छ॒त॒म् । यु॒वम् । सुऽसु॑तिम् । च॒क्र॒थुः॒ । पुर॑म्ऽधये ॥युवम् । रथेन । विमदाय । शुन्ध्युवम् । नि । ऊहथुः । पुरुमित्रस्य । योषणम् । युवम् । हवम् । वध्रिमत्याः । अगच्छतम् । युवम् । सुसुतिम् । चक्रथुः । पुरम्धये ॥yuvam | rathena | vi-madāya | śundhyuvam | ni | ūhathuḥ | puru-mitrasya | yoṣaṇam | yuvam | havam | vadhri-matyāḥ | agacchatam | yuvam | su-sutim | cakrathuḥ | puram-dhaye