Sukta 10.39
इयं वामह्वे शृणुतं मे अश्विना पुत्रायेव पितरा मह्यं शिक्षतम् । अनापिरज्ञा असजात्यामतिः पुरा तस्या अभिशस्तेरव स्पृतम् ॥
इ॒यं वा॑मह्वे शृणु॒तं मे॑ अश्विना पु॒त्राये॑व पि॒तरा॒ मह्यं॑ शिक्षतम् । अना॑पि॒रज्ञा॑ असजा॒त्याम॑तिः पु॒रा तस्या॑ अ॒भिश॑स्ते॒रव॑ स्पृतम् ॥
iyáṃ vām áhve śṛṇutáṃ me aśvinā putrā́yeva pitarā́ máhyaṃ śíkṣatam | anā́pir ájñā asajātyā́ ámatiḥ purā́ tásyā abhi-śástēr áva spṛtam ||
This is my call to you—hear me, O Aśvins; teach and foster me as two fathers would a son. For ignorance without support, a wrong-belonging confusion, has long been upon me; from its hostile affliction, rescue me downward and out.
इ॒यम् । वा॒म् । अह्वे । शृ॒णु॒तम् । मे॒ । अ॒श्वि॒ना॒ । पु॒त्राय॑ऽइव । पि॒तरा॑ । मह्य॑म् । शि॒क्ष॒त॒म् । अना॑पिः । अज्ञाः॑ । अ॒स॒जा॒त्या । अम॑तिः । पु॒रा । तस्याः॑ । अ॒भिऽश॑स्तेः । अव॑ । स्पृ॒त॒म् ॥इयम् । वाम् । अह्वे । शृणुतम् । मे । अश्विना । पुत्रायइव । पितरा । मह्यम् । शिक्षतम् । अनापिः । अज्ञाः । असजात्या । अमतिः । पुरा । तस्याः । अभिशस्तेः । अव । स्पृतम् ॥iyam | vām | ahve | śṛṇutam | me | aśvinā | putrāya-iva | pitarā | mahyam | śikṣatam | anāpiḥ | ajñāḥ | asajātyā | amatiḥ | purā | tasyāḥ | abhi-śasteḥ | ava | spṛtam