Sukta 10.39
पुराणा वां वीर्या प्र ब्रवा जनेऽथो हासथुर्भिषजा मयोभुवा । ता वां नु नव्याववसे करामहेऽयं नासत्या श्रदरिर्यथा दधत् ॥
पु॒रा॒णा वां॑ वी॒र्या॒३॒॑ प्र ब्र॑वा॒ जनेऽथो॑ हासथुर्भि॒षजा॑ मयो॒भुवा॑ । ता वां॒ नु नव्या॒वव॑से करामहे॒ऽयं ना॑सत्या॒ श्रद॒रिर्यथा॒ दध॑त् ॥
purāṇā́ vām vīryā̀ prá bravā jáne 'thó ha āsathuḥ bhiṣájā mayó-bhuvā | tā́ vām nú návyāv ávase karāmahe 'yáṃ nāsatyā śrád arír yáthā dádhat ||
I proclaim to men your ancient heroic powers; thus indeed you have been healers who bring joy. Those same powers, ever new, we now shape into help—so that here the Nāsatyas may place faith in the offering-force that gives itself truly.
पु॒रा॒णा । वा॒म् । वी॒र्या॑ । प्र । ब्र॒व॒ । जने॑ । अथो॒ इति॑ । ह॒ । आ॒स॒थुः॒ । भि॒षजा॑ । म॒यः॒ऽभुवा॑ । ता । वा॒म् । नु । नव्यौ॑ । अव॑से । क॒रा॒म॒हे॒ । अ॒यम् । ना॒स॒त्या॒ । श्रत् । अ॒रिः । यथा॑ । दध॑त् ॥पुराणा । वाम् । वीर्या । प्र । ब्रव । जने । अथो इति । ह । आसथुः । भिषजा । मयःभुवा । ता । वाम् । नु । नव्यौ । अवसे । करामहे । अयम् । नासत्या । श्रत् । अरिः । यथा । दधत् ॥purāṇā | vām | vīryā | pra | brava | jane | atho iti | ha | āsathuḥ | bhiṣajā | mayaḥ-bhuvā | tā | vām | nu | navyau | avase | karāmahe | ayam | nāsatyā | śrat | ariḥ | yathā | dadhat