Sukta 10.39
युवं च्यवानं सनयं यथा रथं पुनर्युवानं चरथाय तक्षथुः । निष्टौग्र्यमूहथुरद्भ्यस्परि विश्वेत्ता वां सवनेषु प्रवाच्या ॥
यु॒वं च्यवा॑नं स॒नयं॒ यथा॒ रथं॒ पुन॒र्युवा॑नं च॒रथा॑य तक्षथुः । निष्टौ॒ग्र्यमू॑हथुर॒द्भ्यस्परि॒ विश्वेत्ता वां॒ सव॑नेषु प्र॒वाच्या॑ ॥
yuváṃ cyávānaṃ sanáyaṃ yáthā ráthaṃ púnar yúvānaṃ caráthāya takṣathuḥ | níṣ ṭaugryám ūhathur adbhyás pári víśvet tá vām sávanesu pra-vā́cyā ||
You two refashioned Cyavāna, the aged, as one refashions a chariot, making him again young for the journey. You bore out Tugrya from the waters on every side—these deeds of yours are to be proclaimed at all the pressings.
यु॒वम् । च्यवा॑नम् । स॒नय॑म् । यथा॑ । रथ॑म् । पुनः॑ । युवा॑नम् । च॒रथा॑य । त॒क्ष॒थुः॒ । निः । तौ॒ग्र्यम् । ऊ॒ह॒थुः॒ । अ॒त्ऽभ्यः । परि॑ । विश्वा॑ । इत् । ता । वा॒म् । सव॑नेषु । प्र॒ऽवाच्या॑ ॥युवम् । च्यवानम् । सनयम् । यथा । रथम् । पुनः । युवानम् । चरथाय । तक्षथुः । निः । तौग्र्यम् । ऊहथुः । अत्भ्यः । परि । विश्वा । इत् । ता । वाम् । सवनेषु । प्रवाच्या ॥yuvam | cyavānam | sanayam | yathā | ratham | punaḥ | yuvānam | carathāya | takṣathuḥ | niḥ | taugryam | ūhathuḥ | at-bhyaḥ | pari | viśvā | it | tā | vām | savaneṣu | pra-vācyā