Sukta 10.39
अमाजुरश्चिद्भवथो युवं भगोऽनाशोश्चिदवितारापमस्य चित् । अन्धस्य चिन्नासत्या कृशस्य चिद्युवामिदाहुर्भिषजा रुतस्य चित् ॥
अ॒मा॒जुर॑श्चिद्भवथो यु॒वं भगो॑ऽना॒शोश्चि॑दवि॒तारा॑प॒मस्य॑ चित् । अ॒न्धस्य॑ चिन्नासत्या कृ॒शस्य॑ चिद्यु॒वामिदा॑हुर्भि॒षजा॑ रु॒तस्य॑ चित् ॥
amā́juraś cid bhavatho yuváṃ bhágo 'nā́śoś cid avitā́rā apamá sya cit | andhásya cin nāsatyā kṛśásya cid yuvā́m id ā́hur bhiṣájā rutásya cit ||
Even for the one who has no strength you become a fortune; even for the one without substance you are saviours, even for the despised. Even for the blind, O Nāsatyas, even for the wasted and weak—yes, you are called physicians even of the wounded cry.
अ॒मा॒ऽजुरः॑ । चि॒त् । भ॒व॒थः॒ । यु॒वम् । भगः॑ । अ॒ना॒शोः । चि॒त् । अ॒वि॒तारा॑ । अ॒प॒मस्य॑ । चि॒त् । अ॒न्धस्य॑ । चि॒त् । ना॒स॒त्या॒ । कृ॒शस्य॑ । चि॒त् । यु॒वाम् । इत् । आ॒हुः॒ । भि॒षजा॑ । रु॒तस्य॑ । चि॒त् ॥अमाजुरः । चित् । भवथः । युवम् । भगः । अनाशोः । चित् । अवितारा । अपमस्य । चित् । अन्धस्य । चित् । नासत्या । कृशस्य । चित् । युवाम् । इत् । आहुः । भिषजा । रुतस्य । चित् ॥amājuraḥ | cit | bhavathaḥ | yuvam | bhagaḥ | anāśoḥ | cit | avitārā | apamasya | ci t | andhasya | cit | nāsatyā | kṛśasya | cit | yuvām | it | āhuḥ | bhiṣajā | rutasya | ci t