Sukta 10.39
चोदयतं सूनृताः पिन्वतं धिय उत्पुरंधीरीरयतं तदुश्मसि । यशसं भागं कृणुतं नो अश्विना सोमं न चारुं मघवत्सु नस्कृतम् ॥
चो॒दय॑तं सू॒नृता॒: पिन्व॑तं॒ धिय॒ उत्पुरं॑धीरीरयतं॒ तदु॑श्मसि । य॒शसं॑ भा॒गं कृ॑णुतं नो अश्विना॒ सोमं॒ न चारुं॑ म॒घव॑त्सु नस्कृतम् ॥
codáyataṃ sūnṛ́tāḥ pínvataṃ dhíya út puram-dhīr īrayataṃ tád uśmasi | yaśásaṃ bhāgáṃ kṛṇutaṃ no aśvinā sómaṃ ná cā́ruṃ maghávat-su naḥ kṛtám ||
Set in motion the powers of luminous truth, strengthen our thoughts; uplift and release the plenitudes of the inspired intelligence—this is what we desire. Fashion for us, O Aśvins, a share that brings glory, like a fair Soma pressed out among the givers of light and force.
चो॒दय॑तम् । सू॒नृताः॑ । पिन्व॑तम् । धियः॑ । उत् । पुर॑म्ऽधीः । ई॒र॒य॒त॒म् । तत् । उ॒श्म॒सि॒ । य॒शस॑म् । भा॒गम् । कृ॒णु॒त॒म् । नः॒ । अ॒श्वि॒ना॒ । सोम॑म् । न । चारु॑म् । म॒घव॑त्ऽसु । नः॒ । कृ॒त॒म् ॥चोदयतम् । सूनृताः । पिन्वतम् । धियः । उत् । पुरम्धीः । ईरयतम् । तत् । उश्मसि । यशसम् । भागम् । कृणुतम् । नः । अश्विना । सोमम् । न । चारुम् । मघवत्सु । नः । कृतम् ॥codayatam | sūnṛtāḥ | pinvatam | dhiyaḥ | ut | puram-dhīḥ | īrayatam | tat | uśmasi | yaśasam | bhāgam | kṛṇutam | naḥ | aśvinā | somam | na | cārum | maghavat-su | naḥ | kṛtam