Sukta 10.39
यो वां परिज्मा सुवृदश्विना रथो दोषामुषासो हव्यो हविष्मता । शश्वत्तमासस्तमु वामिदं वयं पितुर्न नाम सुहवं हवामहे ॥
यो वां॒ परि॑ज्मा सु॒वृद॑श्विना॒ रथो॑ दो॒षामु॒षासो॒ हव्यो॑ ह॒विष्म॑ता । श॒श्व॒त्त॒मास॒स्तमु॑ वामि॒दं व॒यं पि॒तुर्न नाम॑ सु॒हवं॑ हवामहे ॥
yó vām pári-jmā su-vṛ́d aśvinā rátho doṣā́m uṣásaḥ hávyo havíṣmatā | śaśvát-tamāsas tám u vām idáṃ vayáṃ pitúr ná nā́ma su-hávaṃ havāmahe ||
That all-moving chariot of yours, O Aśvins, with good turning, to be invoked by the offerer at night and at dawn—towards that enduring movement we call you here, as one calls by the father’s name, with a sure and happy invocation.
यः । वा॒म् । परि॑ऽज्मा । सु॒ऽवृत् । अ॒श्वि॒ना॒ । रथः॑ । दो॒षाम् । उ॒षसः॑ । हव्यः॑ । ह॒विष्म॑ता । श॒श्व॒त्ऽत॒मासः॑ । तम् । ऊँ॒ इति॑ । वा॒म् । इ॒दम् । व॒यम् । पि॒तुः । न । नाम॑ । सु॒ऽहव॑म् । ह॒वा॒म॒हे॒ ॥यः । वाम् । परिज्मा । सुवृत् । अश्विना । रथः । दोषाम् । उषसः । हव्यः । हविष्मता । शश्वत्तमासः । तम् । ऊँ इति । वाम् । इदम् । वयम् । पितुः । न । नाम । सुहवम् । हवामहे ॥yaḥ | vām | pari-jmā | su-vṛt | aśvinā | rathaḥ | doṣām | uṣasaḥ | havyaḥ | hav iṣmatā | śaśvat-tamāsaḥ | tam | oṃ iti | vām | idam | vayam | pituḥ | na | nāma | su-havam | havāmahe