Sukta 10.39
ता वर्तिर्यातं जयुषा वि पर्वतमपिन्वतं शयवे धेनुमश्विना । वृकस्य चिद्वर्तिकामन्तरास्याद्युवं शचीभिर्ग्रसिताममुञ्चतम् ॥
ता व॒र्तिर्या॑तं ज॒युषा॒ वि पर्व॑त॒मपि॑न्वतं श॒यवे॑ धे॒नुम॑श्विना । वृक॑स्य चि॒द्वर्ति॑काम॒न्तरा॒स्या॑द्यु॒वं शची॑भिर्ग्रसि॒ताम॑मुञ्चतम् ॥
tā́ vartír yātaṃ jayúṣā ví párvatam ápinvataṃ śayáve dhénum aśvinā | vṛ́kasya cid vartikā́m ántarā́syād yuváṃ śácībhiḥ grasitā́m amuñcatam ||
By that path of victory you came and split the mountain; you made the cow of abundance swell for Śayu, O Aśvins. Even from within the wolf’s mouth you, by your effective powers, released the quail that had been swallowed.
ता । व॒र्तिः । या॒त॒म् । ज॒युषा॑ । वि । पर्व॑तम् । अपि॑न्वतम् । श॒यवे॑ । धे॒नुम् । अ॒श्वि॒ना॒ । वृक॑स्य । चि॒त् । वरि॑काम् । अ॒न्तः । आ॒स्या॑त् । यु॒वम् । शची॑भिः । ग्र॒सि॒ताम् । अ॒मु॒ञ्च॒त॒म् ॥ता । वर्तिः । यातम् । जयुषा । वि । पर्वतम् । अपिन्वतम् । शयवे । धेनुम् । अश्विना । वृकस्य । चित् । वरिकाम् । अन्तः । आस्यात् । युवम् । शचीभिः । ग्रसिताम् । अमुञ्चतम् ॥tā | vartiḥ | yātam | jayuṣā | vi | parvatam | apinvatam | śayave | dhenum | aśvinā | vṛkasya | cit | varikām | antaḥ | āsyāt | yuvam | śacībhiḥ | grasitām | amuñcatam