Sukta 10.39
आ तेन यातं मनसो जवीयसा रथं यं वामृभवश्चक्रुरश्विना । यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः ॥
आ तेन॑ यातं॒ मन॑सो॒ जवी॑यसा॒ रथं॒ यं वा॑मृ॒भव॑श्च॒क्रुर॑श्विना । यस्य॒ योगे॑ दुहि॒ता जाय॑ते दि॒व उ॒भे अह॑नी सु॒दिने॑ वि॒वस्व॑तः ॥
ā́ téna yātaṃ mánaso javī́yasā ráthaṃ yáṃ vām ṛbhávaś cakrúr aśvinā | yásya yóge duhitā́ jā́yate divá ubhé áhanī sudíne vivásvataḥ ||
Come with that chariot swifter than mind, O Aśvins—the chariot the Rbhus fashioned for you. In its yoking the Daughter of Heaven is born: the two Days, bright with good-daylight, of Vivasvat’s shining.
आ । तेन॑ । या॒त॒म् । मन॑सः । जवी॑यसा । रथ॑म् । यम् । वा॒म् । ऋ॒भवः॑ । च॒क्रुः । अ॒श्वि॒ना॒ । यस्य॑ । योगे॑ । दु॒हि॒ता । जाय॑ते । दि॒वः । उ॒भे इति॑ । अह॑नी॒ इति॑ । सु॒दिने॒ इति॑ सु॒ऽदिने॑ । वि॒वस्व॑तः ॥आ । तेन । यातम् । मनसः । जवीयसा । रथम् । यम् । वाम् । ऋभवः । चक्रुः । अश्विना । यस्य । योगे । दुहिता । जायते । दिवः । उभे इति । अहनी इति । सुदिने इति सुदिने । विवस्वतः ॥ā | tena | yātam | manasaḥ | javīyasā | ratham | yam | vām | ṛbhavaḥ | cakruḥ | aśvi nā | yasya | yoge | duhitā | jāyate | divaḥ | ubhe iti | ahanī iti | sudineitisu-dine | vivasvataḥ