Sukta 10.39
एतं वां स्तोममश्विनावकर्मातक्षाम भृगवो न रथम् । न्यमृक्षाम योषणां न मर्ये नित्यं न सूनुं तनयं दधानाः ॥
ए॒तं वां॒ स्तोम॑मश्विनावक॒र्मात॑क्षाम॒ भृग॑वो॒ न रथ॑म् । न्य॑मृक्षाम॒ योष॑णां॒ न मर्ये॒ नित्यं॒ न सू॒नुं तन॑यं॒ दधा॑नाः ॥
etáṃ vāṃ stómam aśvināv akarmā́takṣāma bhṛ́gavo ná rátham | ny àmṛkṣāma yóṣaṇāṃ ná már ye nítyaṃ ná sūnúṃ tánayaṃ dádhānāḥ ||
This hymn to you, O Aśvins, we have fashioned—like the Bhṛgus a chariot. We have set it in order and made it bright, as a young woman adorns herself for her lover, as one holds ever a son, a cherished child within.
ए॒तम् । वा॒म् । स्तोम॑म् । अ॒श्वि॒नौ॒ । अ॒क॒र्म॒ । अत॑क्षाम । भृग॑वः । न । रथ॑म् । नि । अ॒मृ॒क्षा॒म॒ । योष॑णाम् । न । मर्ये॑ । नित्य॑म् । न । सू॒नुम् । तन॑यम् । दधा॑नाः ॥एतम् । वाम् । स्तोमम् । अश्विनौ । अकर्म । अतक्षाम । भृगवः । न । रथम् । नि । अमृक्षाम । योषणाम् । न । मर्ये । नित्यम् । न । सूनुम् । तनयम् । दधानाः ॥etam | vām | stomam | aśvinau | akarma | aatakṣāma | bhṛgavaḥ | na | ratham | ni | amṛkṣāma | yoṣaṇām | na | marye | nityam | na | sūnum | tanayam | dadhānāḥ