Sukta 10.39
न तं राजानावदिते कुतश्चन नांहो अश्नोति दुरितं नकिर्भयम् । यमश्विना सुहवा रुद्रवर्तनी पुरोरथं कृणुथः पत्न्या सह ॥
न तं रा॑जानावदिते॒ कुत॑श्च॒न नांहो॑ अश्नोति दुरि॒तं नकि॑र्भ॒यम् । यम॑श्विना सुहवा रुद्रवर्तनी पुरोर॒थं कृ॑णु॒थः पत्न्या॑ स॒ह ॥
ná taṃ rājānāv adite kútaś caná nā́ṃho aśnoti duritáṃ nákir bhayám | yám aśvinā suhavā rudravartanī puroratháṃ kṛṇutháḥ pátnyā sahá ||
That one, O royal Aśvins, child of Aditi’s wideness, is not touched from any side by distress, by crooked misfortune, nor by any fear—whom you, easy to call, moving on Rudra’s path of force, make a front-leading chariot, together with the Lady (the soul-power).
न । तम् । रा॒जा॒नौ॒ । अ॒दि॒ते॒ । कुतः॑ । च॒न । न । अंहः॑ । अ॒श्नो॒ति॒ । दुः॒ऽइ॒तम् । नकिः॑ । भ॒यम् । यम् । अ॒श्वि॒ना॒ । सु॒ऽह॒वा॒ । रु॒द्र॒व॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी । पु॒रः॒ऽर॒थम् । कृ॒णु॒थः । पत्न्या॑ । स॒ह ॥न । तम् । राजानौ । अदिते । कुतः । चन । न । अंहः । अश्नोति । दुःइतम् । नकिः । भयम् । यम् । अश्विना । सुहवा । रुद्रवर्तनी इति रुद्रवर्तनी । पुरःरथम् । कृणुथः । पत्न्या । सह ॥na | tam | rājānau | adite | kutaḥ | cana | na | aṃhaḥ | aśnoti | duḥ-itam | nakiḥ | bhayam | yam | aśvinā | su-havā | rudravartanī itirudra-vartanī | puraḥ-ratham | kṛṇuthaḥ | patnyā | saha