Sukta 10.39
युवं श्वेतं पेदवेऽश्विनाश्वं नवभिर्वाजैर्नवती च वाजिनम् । चर्कृत्यं ददथुर्द्रावयत्सखं भगं न नृभ्यो हव्यं मयोभुवम् ॥
यु॒वं श्वे॒तं पे॒दवे॑ऽश्वि॒नाश्वं॑ न॒वभि॒र्वाजै॑र्नव॒ती च॑ वा॒जिन॑म् । च॒र्कृत्यं॑ ददथुर्द्राव॒यत्स॑खं॒ भगं॒ न नृभ्यो॒ हव्यं॑ मयो॒भुव॑म् ॥
yuváṃ śvetáṃ pédave’śvinā́śvaṃ navábhir vājáiḥ navatī́ ca vājínam | carkṛ́tyaṃ dadathur drāvayát-sakhaṃ bhágaṃ na nṛ́bhyo hávyaṃ mayobhúvam ||
You two, O Aśvins, gave to Pedu the white steed—victorious with nine powers and with ninety too, a carrier of plenitude. You bestowed the swift-moving helper, a companion that drives forward, like Bhaga’s share: an offering that becomes delight for human souls.
यु॒वम् । श्वे॒तम् । पे॒दवे॑ । अ॒श्वि॒ना॒ । अश्व॑म् । न॒वऽभिः॑ । वाजैः॑ । न॒व॒ती । च॒ । वा॒जिन॑म् । च॒र्कृत्य॑म् । द॒द॒थुः॒ । द्र॒व॒यत्ऽस॑खम् । भग॑म् । न । नृऽभ्यः॑ । हव्य॑म् । म॒यः॒ऽभुव॑म् ॥युवम् । श्वेतम् । पेदवे । अश्विना । अश्वम् । नवभिः । वाजैः । नवती । च । वाजिनम् । चर्कृत्यम् । ददथुः । द्रवयत्सखम् । भगम् । न । नृभ्यः । हव्यम् । मयःभुवम् ॥yuvam | śvetam | pedave | aśvinā | aśvam | nava-bhiḥ | vājaiḥ | navatī | ca | vāji nam | carkṛtyam | dadathuḥ | dravayat-sakham | bhagam | na | nṛ-bhyaḥ | havyam | mayaḥ-bhuvam