Sukta 10.37
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतं सपर्यत । दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शंसत ॥
नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत । दू॒रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शंसत ॥
námo mitrásya váruṇasya cákṣase mahó devā́ya tád ṛtáṃ saparyata | dūré-dṛ́śe devájātāya kétave divás-putrā́ya sū́ryāya śaṃsata ||
Adoration to the Eye of Mitra and Varuṇa, to the great God—serve that Truth-Order. Praise the far-seeing, the divine-born Light-sign, the Son of Heaven, Sūrya.
नमः॑ । मि॒त्रस्य॑ । वरु॑णस्य । चक्ष॑से । म॒हः । दे॒वाय॑ । तत् । ऋ॒तम् । स॒प॒र्य॒त॒ । दू॒रे॒ऽदृशे॑ । दे॒वऽजा॑ताय । के॒तवे॑ । दि॒वः । पु॒त्राय॑ । सूर्या॑य । शं॒स॒त॒ ॥नमः । मित्रस्य । वरुणस्य । चक्षसे । महः । देवाय । तत् । ऋतम् । सपर्यत । दूरेदृशे । देवजाताय । केतवे । दिवः । पुत्राय । सूर्याय । शंसत ॥namaḥ | mitrasya | varuṇasya | cakṣase | mahaḥ | devāya | tat | ṛtam | saparyata | dūre--dṛśe | deva-jātāya | ketave | divaḥ | putrāya | sūryāya | śaṃsata