Sukta 10.36
सनेम तत्सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रा अनागसः । ब्रह्मद्विषो विष्वगेनो भरेरत तद्देवानामवो अद्या वृणीमहे ॥
स॒नेम॒ तत्सु॑स॒निता॑ स॒नित्व॑भिर्व॒यं जी॒वा जी॒वपु॑त्रा॒ अना॑गसः । ब्र॒ह्म॒द्विषो॒ विष्व॒गेनो॑ भरेरत॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
sanéma tát susánitā sanitvá-bhir vayaṃ jīvā́ jīvá-putrā anā́gasaḥ | brahmadvíṣo víṣvag éno bharerata tád devā́nām ávo adyā́ vṛṇīmahe ||
May we win that true winning by the powers of right gain—living ourselves, bearing living sons, without fault. Let the haters of the Word carry away their crooked sin; that protecting help of the Gods we choose today.
स॒नेम॑ । तत् । सु॒ऽस॒निता॑ । स॒नित्व॑ऽभिः । व॒यम् । जी॒वाः । जी॒वऽपु॑त्राः । अना॑गसः । ब्र॒ह्म॒ऽद्विषः॑ । विष्व॑क् । एनः॑ । भ॒रे॒र॒त॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥सनेम । तत् । सुसनिता । सनित्वभिः । वयम् । जीवाः । जीवपुत्राः । अनागसः । ब्रह्मद्विषः । विष्वक् । एनः । भरेरत । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥sanema | tat | su-sanitā | sanitva-bhiḥ | vayam | jīvāḥ | jīva-putrāḥ | anāgasaḥ | brahma-dviṣaḥ | viṣvak | enaḥ | bharerata | tat | devānām | avaḥ | adya | vṛṇīmahe