Sukta 10.36
ये स्था मनोर्यज्ञियास्ते शृणोतन यद्वो देवा ईमहे तद्ददातन । जैत्रं क्रतुं रयिमद्वीरवद्यशस्तद्देवानामवो अद्या वृणीमहे ॥
ये स्था मनो॑र्य॒ज्ञिया॒स्ते शृ॑णोतन॒ यद्वो॑ देवा॒ ईम॑हे॒ तद्द॑दातन । जैत्रं॒ क्रतुं॑ रयि॒मद्वी॒रव॒द्यश॒स्तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
yé sthā́ manór yajñiyā́s té śṛṇotana yád vo devā́ ī́mahe tád dadātana | jáitraṃ krátum rayimád vī́ravad yáśas tád devā́nām ávo adyā́ vṛṇīmahe ||
You who stand in the mind as powers fit for sacrifice—hear us. What we seek of you, O Gods, grant it: a conquering will, a fullness of being, heroic force and luminous fame. That protecting help of the Gods we choose today.
ये । स्थाः । मनोः॑ । य॒ज्ञियाः॑ । ते । शृ॒णो॒त॒न॒ । यत् । वः॒ । दे॒वाः॒ । ईम॑हे । तत् । द॒दा॒त॒न॒ । जैत्र॑म् । क्रतु॑म् । र॒यि॒मत् । वी॒रऽव॑त् । यशः॑ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥ये । स्थाः । मनोः । यज्ञियाः । ते । शृणोतन । यत् । वः । देवाः । ईमहे । तत् । ददातन । जैत्रम् । क्रतुम् । रयिमत् । वीरवत् । यशः । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥ye | sthāḥ | manoḥ | yajñiyāḥ | te | śṛṇotana | yat | vaḥ | devāḥ | īmahe | tat | dadātana | jaitram | kratum | rayimat | vīra-vat | yaśaḥ | tat | devānām | avaḥ | adya | vṛṇīmahe