Sukta 10.36
उप ह्वये सुहवं मारुतं गणं पावकमृष्वं सख्याय शम्भुवम् । रायस्पोषं सौश्रवसाय धीमहि तद्देवानामवो अद्या वृणीमहे ॥
उप॑ ह्वये सु॒हवं॒ मारु॑तं ग॒णं पा॑व॒कमृ॒ष्वं स॒ख्याय॑ श॒म्भुव॑म् । रा॒यस्पोषं॑ सौश्रव॒साय॑ धीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
úpa hvaye suhávaṃ mā́rutaṃ gaṇáṃ pā́vakam ṛ́ṣvaṃ sakhyā́ya śámbhuvam | rāyás póṣaṃ sauśravásāya dhīmahi tád devānām ávo adyā́ vṛṇīmahe ||
I invoke the Marut host, easy to call, purifying and uplifted, for comradeship and for bliss. We set our thought on the increase of rāyas—on the growth of inner riches—for a wide and enduring good fame. That protection of the gods we choose today.
उप॑ । ह्व॒ये॒ । सु॒ऽहव॑म् । मारु॑तम् । ग॒णम् । पा॒व॒कम् । ऋ॒ष्वम् । स॒ख्याय॑ । श॒म्ऽभुव॑म् । रा॒यः । पोष॑म् । सौ॒श्र॒व॒साय॑ । धी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥उप । ह्वये । सुहवम् । मारुतम् । गणम् । पावकम् । ऋष्वम् । सख्याय । शम्भुवम् । रायः । पोषम् । सौश्रवसाय । धीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥upa | hvaye | su-havam | mārutam | gaṇam | pāvakam | ṛṣvam | sakhyāya | śam-bhuvam | rāyaḥ | poṣam | sauśravasāya | dhīmahi | tat | devānām | avaḥ | adya | vṛṇīmahe