Sukta 10.36
दिविस्पृशं यज्ञमस्माकमश्विना जीराध्वरं कृणुतं सुम्नमिष्टये । प्राचीनरश्मिमाहुतं घृतेन तद्देवानामवो अद्या वृणीमहे ॥
दि॒वि॒स्पृशं॑ य॒ज्ञम॒स्माक॑मश्विना जी॒राध्व॑रं कृणुतं सु॒म्नमि॒ष्टये॑ । प्रा॒चीन॑रश्मि॒माहु॑तं घृ॒तेन॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
divispṛ́śaṃ yajñám asmā́kam aśvinā jīrā́dhvaraṃ kṛṇutaṃ sumnám iṣṭáye | prācī́narāśmim ā́hutaṃ ghṛténa tád devānām ávo adyā́ vṛṇīmahe ||
O Aśvins, make our sacrifice heaven-touching, make the rite swift-moving, a grace for our seeking. The offering is poured with ghee, bearing forward rays: that protection of the gods we choose today.
दि॒वि॒ऽस्पृश॑म् । य॒ज्ञम् । अ॒स्माक॑म् । अ॒श्वि॒ना॒ । जी॒रऽअ॑ध्वरम् । कृ॒णु॒त॒म् । सु॒म्नम् । इ॒ष्टये॑ । प्रा॒चीन॑ऽरश्मिम् । आऽहु॑तम् । घृ॒तेन॑ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥दिविस्पृशम् । यज्ञम् । अस्माकम् । अश्विना । जीरअध्वरम् । कृणुतम् । सुम्नम् । इष्टये । प्राचीनरश्मिम् । आहुतम् । घृतेन । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥divi-spṛśam | yajñam | asmākam | aśvinā | jīra-adhvaram | kṛṇutam | sumnam | iṣṭaye | prācīna-raśmim | āhutam | ghṛtena | tat | devānām | avaḥ | adya | vṛṇīmahe