Sukta 10.36
एन्द्रो बर्हिः सीदतु पिन्वतामिळा बृहस्पतिः सामभिॠक्वो अर्चतु । सुप्रकेतं जीवसे मन्म धीमहि तद्देवानामवो अद्या वृणीमहे ॥
एन्द्रो॑ ब॒र्हिः सीद॑तु॒ पिन्व॑ता॒मिळा॒ बृह॒स्पति॒: साम॑भिॠ॒क्वो अ॑र्चतु । सु॒प्र॒के॒तं जी॒वसे॒ मन्म॑ धीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
ā́ índro barhíḥ sīdatu pínvatām íḷā bṛ́haspátiḥ sā́mabhir ṛ́kvo arcatu | suprakétam jīváse mánma dhīmahi tád devānām ávo adyā́ vṛṇīmahe ||
Let Indra sit upon the sacred seat; let Iḷā be made full. Let Bṛhaspati, the seer of the Word, sing with the sāman-chants. For our living we set our thought in the clear-guiding intuition. That protection of the gods we choose today.
आ । इन्द्रः॑ । ब॒र्हिः । सीद॑तु । पिन्व॑ताम् । इळा॑ । बृह॒स्पतिः॑ । साम॑ऽभिः । ऋ॒क्वः । अ॒र्च॒तु॒ । सु॒ऽप्र॒के॒तम् । जी॒वसे॑ । मन्म॑ । धी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥आ । इन्द्रः । बर्हिः । सीदतु । पिन्वताम् । इळा । बृहस्पतिः । सामभिः । ऋक्वः । अर्चतु । सुप्रकेतम् । जीवसे । मन्म । धीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥ā | indraḥ | barhiḥ | sīdatu | pinvatām | iḷā | bṛhaspatiḥ | sāma-bhiḥ | ṛkvaḥ | arcatu | su-praketam | jīvase | manma | dhīmahi | tat | devānām | avaḥ | adya | vṛṇīmahe