Sukta 10.36
ग्रावा वदन्नप रक्षांसि सेधतु दुष्ष्वप्न्यं निॠतिं विश्वमत्रिणम् । आदित्यं शर्म मरुतामशीमहि तद्देवानामवो अद्या वृणीमहे ॥
ग्रावा॒ वद॒न्नप॒ रक्षां॑सि सेधतु दु॒ष्ष्वप्न्यं॒ निॠ॑तिं॒ विश्व॑म॒त्रिण॑म् । आ॒दि॒त्यं शर्म॑ म॒रुता॑मशीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
grā́vā vádann ápa rákṣāṃsi sedhatu duṣṣvápnyaṃ níṛtiṃ víśvam atríṇam | ādityáṃ śárma marútām aśīmahi tád devānām ávo adyā́ vṛṇīmahe ||
Let the pressing-stone, sounding forth, drive away the hostile powers; let it repel evil dreaming, Nirṛti, and every devouring force. We would attain the Ādityas’ peace and the Maruts’ sheltering bliss. That protection of the gods we choose today.
ग्रावा॑ । वद॑न् । अप॑ । रक्षां॑सि । से॒ध॒तु॒ । दुः॒ऽस्वप्न्य॑म् । निःऽऋ॑तिम् । विश्व॑म् । अ॒त्रिण॑म् । आ॒दि॒त्यम् । शर्म॑ । म॒रुता॑म् । अ॒शी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥ग्रावा । वदन् । अप । रक्षांसि । सेधतु । दुःस्वप्न्यम् । निःऋतिम् । विश्वम् । अत्रिणम् । आदित्यम् । शर्म । मरुताम् । अशीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥grāvā | vadan | apa | rakṣāṃsi | sedhatu | duḥ-svapnyam | niḥ-ṛtim | viśvam | atriṇam | ādityam | śarma | marutām | aśīmahi | tat | devānām | avaḥ | adya | vṛṇīmahe