Sukta 10.36
विश्वस्मान्नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्य रेवतः । स्वर्वज्ज्योतिरवृकं नशीमहि तद्देवानामवो अद्या वृणीमहे ॥
विश्व॑स्मान्नो॒ अदि॑तिः पा॒त्वंह॑सो मा॒ता मि॒त्रस्य॒ वरु॑णस्य रे॒वत॑: । स्व॑र्व॒ज्ज्योति॑रवृ॒कं न॑शीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
viśvásmān no áditiḥ pātv áṃhaso mātā́ mitrásya váruṇasya revátaḥ | svàrvaj jyótir avṛkáṃ naśīmahi tád devānām ávo adyā́ vṛṇīmahe ||
May Aditi protect us from every distress—she, the mother of Mitra and the splendid Varuṇa. May we attain the light that is full of svar, a light un-wolfed, untouched by devouring darkness. That protection of the gods we choose today.
विश्व॑स्मात् । नः॒ । अदि॑तिः । पा॒तु॒ । अंह॑सः । मा॒ता । मि॒त्रस्य॑ । वरु॑णस्य । रे॒वतः॑ । स्वः॑ऽवत् । ज्योतिः॑ । अ॒वृ॒कम् । न॒शी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥विश्वस्मात् । नः । अदितिः । पातु । अंहसः । माता । मित्रस्य । वरुणस्य । रेवतः । स्वःवत् । ज्योतिः । अवृकम् । नशीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥viśvasmāt | naḥ | aditiḥ | pātu | aṃhasaḥ | mātā | mitrasya | varuṇasya | revataḥ | svaḥ-vat | jyotiḥ | avṛkam | naśīmahi | tat | devānām | avaḥ | adya | vṛṇīmahe