Sukta 10.36
द्यौश्च नः पृथिवी च प्रचेतस ऋतावरी रक्षतामंहसो रिषः । मा दुर्विदत्रा निॠतिर्न ईशत तद्देवानामवो अद्या वृणीमहे ॥
द्यौश्च॑ नः पृथि॒वी च॒ प्रचे॑तस ऋ॒ताव॑री रक्षता॒मंह॑सो रि॒षः । मा दु॑र्वि॒दत्रा॒ निॠ॑तिर्न ईशत॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
dyáuś ca naḥ pṛthivī́ ca prácetasā ṛtā́varī rakṣatām áṃhaso ríṣaḥ | mā durvidátrā níṛtir na īśata tád devānām ávo adyā́ vṛṇīmahe ||
May Heaven and Earth, the wise and conscious, guardians of the Truth, protect us from distress and harm. Let not ill-apportioning Nirṛti rule over us. That protection of the gods we choose today.
द्यौः । च॒ । नः॒ । पृ॒थि॒वी । च॒ । प्रऽचे॑तसा । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । र॒क्ष॒ता॒म् । अंह॑सः । रि॒षः । मा । दुः॒ऽवि॒दत्रा॑ । न्र्ऽऋ॑तिः । नः॒ । ई॒श॒त॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥द्यौः । च । नः । पृथिवी । च । प्रचेतसा । ऋतवरी इत्यृतवरी । रक्षताम् । अंहसः । रिषः । मा । दुःविदत्रा । न्र्ऋतिः । नः । ईशत । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥dyauḥ | ca | naḥ | pṛthivī | ca | pra-cetasā | ṛtavarī ity ṛta-varī | rakṣatām | aṃhasaḥ | riṣaḥ | mā | duḥ-vidatrā | nr-ṛtiḥ | naḥ | īśata | tat | devānām | avaḥ | adya | vṛṇīmahe