Sukta 10.36
उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा । इन्द्रं हुवे मरुतः पर्वताँ अप आदित्यान्द्यावापृथिवी अपः स्वः ॥
उ॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ द्यावा॒क्षामा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । इन्द्रं॑ हुवे म॒रुत॒: पर्व॑ताँ अ॒प आ॑दि॒त्यान्द्यावा॑पृथि॒वी अ॒पः स्व॑: ॥
uṣásānáktā bṛhatī́ supeśasā dyāvākṣāmā váruṇo mitró aryámā | índraṃ huve marútaḥ párvatāṃ ápa ādityā́n dyāvāpṛthivī́ ápaḥ svàḥ ||
I call Dawn and Night, vast and beautifully formed; Heaven-and-Earth, Varuṇa, Mitra, Aryaman. I call Indra, the Maruts, the Mountains, the Waters, the Ādityas, and Heaven-and-Earth, the Waters, the luminous world: may these cosmic powers assemble within us as the complete order of our becoming.
उ॒षसा॒नक्ता॑ । बृ॒ह॒ती इति॑ । सु॒ऽपेश॑सा । द्यावा॒क्षामा॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । इन्द्र॑म् । हु॒वे॒ । म॒रुतः॑ । पर्व॑तान् । अ॒पः । आ॒दि॒त्यान् । द्यावा॑पृथि॒वी इति॑ । अ॒पः । स्वरिति॑ स्वः॑ ॥उषसानक्ता । बृहती इति । सुपेशसा । द्यावाक्षामा । वरुणः । मित्रः । अर्यमा । इन्द्रम् । हुवे । मरुतः । पर्वतान् । अपः । आदित्यान् । द्यावापृथिवी इति । अपः । स्वरिति स्वः ॥uṣasānaktā | bṛhatī iti | su-peśasā | dyāvākṣāmā | varuṇaḥ | mitraḥ | aryamā | indram | huve | marutaḥ | parvatān | apaḥ | ādityān | dyāvāpṛthivī iti | apaḥ | svar iti svaḥ