Sukta 10.36
ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः । ते सौभगं वीरवद्गोमदप्नो दधातन द्रविणं चित्रमस्मे ॥
ये स॑वि॒तुः स॒त्यस॑वस्य॒ विश्वे॑ मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः । ते सौभ॑गं वी॒रव॒द्गोम॒दप्नो॒ दधा॑तन॒ द्रवि॑णं चि॒त्रम॒स्मे ॥
yé savitúḥ satyásavasya víśve mitrásya vraté váruṇasya devā́ḥ | té saúbhagaṃ vī́ravad gómad ápno dádhātana dráviṇaṃ citrám asmè ||
You Gods, all who are of Savitar of the true impulsion, in the law of Mitra, of Varuṇa—set in us felicity, rich in heroic power, rich in rays of illumination, rich in attainment; establish for us a many-colored treasure.
ये । स॒वि॒तुः । स॒त्यऽस॑वस्य । विश्वे॑ । मि॒त्रस्य॑ । व्र॒ते । वरु॑णस्य । दे॒वाः । ते । सौभ॑गम् । वी॒रऽवत् । गोऽम॑त् । अप्नः॑ । दधा॑तन । द्रवि॑णम् । चि॒त्रम् । अ॒स्मे इति॑ ॥ये । सवितुः । सत्यसवस्य । विश्वे । मित्रस्य । व्रते । वरुणस्य । देवाः । ते । सौभगम् । वीरवत् । गोमत् । अप्नः । दधातन । द्रविणम् । चित्रम् । अस्मे इति ॥ye | savituḥ | satya-savasya | viśve | mitrasya | vrate | varuṇasya | devāḥ | te | saubhagam | vīra-vat | go--mat | apnaḥ | dadhātana | draviṇam | citram | asme iti