Sukta 10.36
महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणे स्वस्तये । श्रेष्ठे स्याम सवितुः सवीमनि तद्देवानामवो अद्या वृणीमहे ॥
म॒हो अ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना॑गा मि॒त्रे वरु॑णे स्व॒स्तये॑ । श्रेष्ठे॑ स्याम सवि॒तुः सवी॑मनि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
mahó agnéḥ samidhānásya śármaṇy anā́gā mitré váruṇe svastáye | śréṣṭhe syāma savitúḥ savī́mani tád devā́nām ávo adyā́ vṛṇīmahe ||
In the great shelter of Agni kindled within, may we be without fault; in Mitra and Varuṇa for our well-being. May we be in the best state in Savitar’s true impulsion. That protecting help of the Gods we choose today.
म॒हः । अ॒ग्नेः । स॒म्ऽइ॒धा॒नस्य । शर्म॑णि । अना॑गाः । मि॒त्रे । वरु॑णे । स्व॒स्तये॑ । श्रेष्ठे॑ । स्या॒म॒ । स॒वि॒तुः । सवी॑मनि । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥महः । अग्नेः । सम्इधानस्य । शर्मणि । अनागाः । मित्रे । वरुणे । स्वस्तये । श्रेष्ठे । स्याम । सवितुः । सवीमनि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥mahaḥ | agneḥ | sam-idhānasya | śarmaṇi | anāgāḥ | mitre | varuṇe | svastaye | śreṣṭhe | syāma | savituḥ | savīmani | tat | devānām | avaḥ | adya | vṛṇīmahe