Sukta 10.36
सविता पश्चातात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् । सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः ॥
स॒वि॒ता प॒श्चाता॑त्सवि॒ता पु॒रस्ता॑त्सवि॒तोत्त॒रात्ता॑त्सवि॒ताध॒रात्ता॑त् । स॒वि॒ता न॑: सुवतु स॒र्वता॑तिं सवि॒ता नो॑ रासतां दी॒र्घमायु॑: ॥
savitā́ paścā́tāt savitā́ purástāt savitóttarā́ttāt savitā́dharā́ttāt | savitā́ naḥ suvatu sarva-tā́tiṃ savitā́ no rāsatāṃ dī́rgham ā́yuḥ ||
Savitar from behind, Savitar from before, Savitar from the north, Savitar from below: may Savitar impel for us the totality of the right fulness; may Savitar grant us long life—long continuance of the soul’s journey.
स॒वि॒ता । प॒श्चाता॑त् । स॒वि॒ता । पु॒रस्ता॑त् । स॒वि॒ता । उ॒त्त॒रात्ता॑त् । स॒वि॒ता । अ॒ध॒रात्ता॑त् । स॒वि॒ता । नः॒ । सु॒व॒तु॒ । स॒र्वऽता॑तिम् । स॒वि॒ता । नः॒ । रा॒स॒ता॒म् । दी॒र्घम् । आयुः॑ ॥सविता । पश्चातात् । सविता । पुरस्तात् । सविता । उत्तरात्तात् । सविता । अधरात्तात् । सविता । नः । सुवतु । सर्वतातिम् । सविता । नः । रासताम् । दीर्घम् । आयुः ॥savitā | paścātāt | savitā | purastāt | savitā | uttarāttāt | savitā | adharāttāt | sav itā | naḥ | suvatu | sarva-tātim | savitā | naḥ | rāsatām | dīrgham | āyuḥ