Sukta 10.36
महदद्य महतामा वृणीमहेऽवो देवानां बृहतामनर्वणाम् । यथा वसु वीरजातं नशामहै तद्देवानामवो अद्या वृणीमहे ॥
म॒हद॒द्य म॑ह॒तामा वृ॑णीम॒हेऽवो॑ दे॒वानां॑ बृह॒ताम॑न॒र्वणा॑म् । यथा॒ वसु॑ वी॒रजा॑तं॒ नशा॑महै॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
mahád adyá mahatā́m ā́ vṛṇīmahe’vo devā́nāṃ bṛhatā́m anarváṇām | yáthā vásu vīrájātaṃ náśāmahai tád devā́nām ávo adyā́ vṛṇīmahe ||
Today we choose the great help of the great Gods, the vast ones who do not fail in their course, so that we may arrive at the true good—rich in heroic birth of powers. That protecting help of the Gods we choose today.
म॒हत् । अ॒द्य । म॒ह॒ताम् । आ । वृ॒णी॒म॒हे॒ । अवः॑ । दे॒वाना॑म् । बृ॒ह॒ताम् । अ॒न॒र्वणा॑म् । यथा॑ । वसु॑ । वी॒रऽजा॑तम् । नशा॑महै । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥महत् । अद्य । महताम् । आ । वृणीमहे । अवः । देवानाम् । बृहताम् । अनर्वणाम् । यथा । वसु । वीरजातम् । नशामहै । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥mahat | adya | mahatām | ā | vṛṇīmahe | avaḥ | devānām | bṛhatām | anarvaṇām | yathā | vasu | vīra-jātam | naśāmahai | tat | devānām | avaḥ | adya | vṛṇīmahe