Sukta 10.34
नीचा वर्तन्त उपरि स्फुरन्त्यहस्तासो हस्तवन्तं सहन्ते । दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर्दहन्ति ॥
नी॒चा व॑र्तन्त उ॒परि॑ स्फुरन्त्यह॒स्तासो॒ हस्त॑वन्तं सहन्ते । दि॒व्या अङ्गा॑रा॒ इरि॑णे॒ न्यु॑प्ताः शी॒ताः सन्तो॒ हृद॑यं॒ निर्द॑हन्ति ॥
nīcā́ vártanta úpari sphuranty ahastā́so hástavantaṃ sahante | divyā́ aṅgā́rā íriṇe nyùptāḥ śītā́ḥ sántaḥ hṛ́dayaṃ nír dahanti ||
They roll low and then leap high; the handless overpower the man with hands. Like heavenly coals buried in a barren ground, cold as they seem, they burn the heart away.
नी॒चाः । व॒र्त॒न्ते॒ । उ॒परि॑ । स्फु॒र॒न्ति॒ । अ॒ह॒स्तासः॑ । हस्त॑ऽवन्तम् । स॒ह॒न्ते॒ । दि॒व्याः । अङ्गा॑राः । इरि॑णे । निऽउ॑प्ताः । शी॒ताः । सन्तः॑ । हृद॑यम् । निः । द॒ह॒न्ति॒ ॥नीचाः । वर्तन्ते । उपरि । स्फुरन्ति । अहस्तासः । हस्तवन्तम् । सहन्ते । दिव्याः । अङ्गाराः । इरिणे । निउप्ताः । शीताः । सन्तः । हृदयम् । निः । दहन्ति ॥nīcāḥ | vartante | upari | sphuranti | ahastāsaḥ | hasta-vantam | sahante | divyāḥ | aṅgārāḥ | iriṇe | ni-uptāḥ | śītāḥ | santaḥ | hṛdayam | niḥ | dahanti