Sukta 10.34
त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता सत्यधर्मा । उग्रस्य चिन्मन्यवे ना नमन्ते राजा चिदेभ्यो नम इत्कृणोति ॥
त्रि॒प॒ञ्चा॒शः क्री॑ळति॒ व्रात॑ एषां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा । उ॒ग्रस्य॑ चिन्म॒न्यवे॒ ना न॑मन्ते॒ राजा॑ चिदेभ्यो॒ नम॒ इत्कृ॑णोति ॥
tripañcāśáḥ krī́ḷati vrā́ta eṣāṃ devá iva savitā́ satyádharmā | ugrásya cin mányave nā́ namante rājā́ cid ebhyo náma ít kṛṇoti ||
Their troop of fifty-three plays, like a god—like Savitṛ firm in true law. They do not bow even to a fierce man’s wrath; even a king makes obeisance to them.
त्रि॒ऽप॒ञ्चा॒शः । क्री॒ळ॒ति॒ । व्रातः॑ । ए॒षा॒म् । दे॒वःऽइ॑व । स॒वि॒ता । स॒त्यऽध॑र्मा । उ॒ग्रस्य॑ । चि॒त् । म॒न्यवे॑ । न । न॒म॒न्ते॒ । राजा॑ । चि॒त् । ए॒भ्यः॒ । नमः॑ । इत् । कृ॒णो॒मि॒ ॥त्रिपञ्चाशः । क्रीळति । व्रातः । एषाम् । देवःइव । सविता । सत्यधर्मा । उग्रस्य । चित् । मन्यवे । न । नमन्ते । राजा । चित् । एभ्यः । नमः । इत् । कृणोमि ॥tri-pañcāśaḥ | krīḷati | vrātaḥ | eṣām | devaḥ-iva | savitā | satya-dharmā | ugrasya | cit | manyave | na | namante | rājā | cit | ebhyaḥ | namaḥ | it | kṛṇomi