Sukta 10.34
जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्व स्वित् । ऋणावा बिभ्यद्धनमिच्छमानोऽन्येषामस्तमुप नक्तमेति ॥
जा॒या त॑प्यते कित॒वस्य॑ ही॒ना मा॒ता पु॒त्रस्य॒ चर॑त॒: क्व॑ स्वित् । ऋ॒णा॒वा बिभ्य॒द्धन॑मि॒च्छमा॑नो॒ऽन्येषा॒मस्त॒मुप॒ नक्त॑मेति ॥
jāyā́ tapyate kitavásya hīnā́ mātā́ putrásya cárataḥ kva svit | ṛṇāvā́ bíbhyad dhánam icchámāno 'nyéṣām ástam úpa náktam eti ||
The wife, left behind, burns with grief; the mother wonders, “Where is my wandering son?” In debt and fear, craving wealth, he goes by night to the homes of others—seeking support, losing his own truth.
जा॒या । त॒प्य॒ते॒ । कित॒वस्य॑ । ही॒ना । मा॒ता । पु॒त्रस्य॑ । चर॑तः । क्व॑ । स्वि॒त् । ऋ॒ण॒ऽवा । बि॒भ्य॒त् । धन॑म् । इ॒च्छमा॑नः । अ॒न्येषा॑म् । अस्त॑म् । उप॑ । नक्त॑म् । ए॒ति॒ ॥जाया । तप्यते । कितवस्य । हीना । माता । पुत्रस्य । चरतः । क्व । स्वित् । ऋणवा । बिभ्यत् । धनम् । इच्छमानः । अन्येषाम् । अस्तम् । उप । नक्तम् । एति ॥jāyā | tapyate | kitavasya | hīnā | mātā | putrasya | carataḥ | kva | svit | ṛṇa-vā | bibhyat | dhanam | icchamānaḥ | anyeṣām | astam | upa | naktam | eti