Sukta 10.34
अक्षास इदङ्कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः । कुमारदेष्णा जयतः पुनर्हणो मध्वा सम्पृक्ताः कितवस्य बर्हणा ॥
अ॒क्षास॒ इद॑ङ्कु॒शिनो॑ नितो॒दिनो॑ नि॒कृत्वा॑न॒स्तप॑नास्तापयि॒ष्णव॑: । कु॒मा॒रदे॑ष्णा॒ जय॑तः पुन॒र्हणो॒ मध्वा॒ सम्पृ॑क्ताः कित॒वस्य॑ ब॒र्हणा॑ ॥
akṣā́sa íd aṅkuśíno nitodíno ni-kṛtvā́nas tápanās tāpayiṣṇávaḥ | kumāradeṣṇā́ jáyataḥ punarháṇo mádhvā sámpṛktāḥ kitavásya barháṇā ||
The dice indeed are goading-hooks and piercers; they cut down and burn, tormenting. They win again and again, taking even the boy’s portion; mingled with a sweet lure, they become the gambler’s crushing force.
अ॒क्षासः॑ । इत् । अ॒ङ्कु॒शिनः॑ । नि॒ऽतो॒दिनः॑ । नि॒ऽकृत्वा॑नः । तप॑नाः । ता॒प॒यि॒ष्णवः॑ । कु॒मा॒रऽदे॑ष्णाः । जय॑तः । पु॒नः॒ऽहनः॑ । मध्वा॑ । सम्ऽपृ॑क्ताः । कि॒त॒वस्य॑ । ब॒र्हणा॑ ॥अक्षासः । इत् । अङ्कुशिनः । नितोदिनः । निकृत्वानः । तपनाः । तापयिष्णवः । कुमारदेष्णाः । जयतः । पुनःहनः । मध्वा । सम्पृक्ताः । कितवस्य । बर्हणा ॥akṣāsaḥ | it | aṅkuśinaḥ | ni-todinaḥ | ni-kṛtvānaḥ | tapanāḥ | tāpayiṣṇavaḥ | kumāra-deṣṇāḥ | jayataḥ | punaḥ-hanaḥ | madhvā | sam-pṛktāḥ | kitavasya | barhaṇā