Sukta 10.34
सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा शूशुजानः । अक्षासो अस्य वि तिरन्ति कामं प्रतिदीव्ने दधत आ कृतानि ॥
स॒भामे॑ति कित॒वः पृ॒च्छमा॑नो जे॒ष्यामीति॑ त॒न्वा॒३॒॑ शूशु॑जानः । अ॒क्षासो॑ अस्य॒ वि ति॑रन्ति॒ कामं॑ प्रति॒दीव्ने॒ दध॑त॒ आ कृ॒तानि॑ ॥
sabhā́m eti kitaváḥ pṛcchámāno jeṣyā́mīti tanvā́ śūśujā́naḥ | akṣā́so asya ví tiranti kā́maṃ pratidī́vne dádhata ā́ kṛtā́ni ||
He goes to the assembly, the gambler, questioning within himself, “Shall I win?”—his whole being feverishly straining. But the dice scatter his desire in many directions; again and again they fasten on him the deeds already done (the past actions returning as compulsion).
स॒भाम् । ए॒ति॒ । कि॒त॒वः । पृ॒च्छमा॑नः । जे॒ष्यामि॑ । इति॑ । त॒न्वा॑ । शूशु॑जानः । अ॒क्षासः॑ । अ॒स्य॒ । वि । ति॒र॒न्ति॒ । काम॑म् । प्र॒ति॒ऽदीव्ने॑ । दध॑तः । आ । कृ॒तानि॑ ॥सभाम् । एति । कितवः । पृच्छमानः । जेष्यामि । इति । तन्वा । शूशुजानः । अक्षासः । अस्य । वि । तिरन्ति । कामम् । प्रतिदीव्ने । दधतः । आ । कृतानि ॥sabhām | eti | kitavaḥ | pṛcchamānaḥ | jeṣyāmi | iti | tanvā | śūśujānaḥ | akṣāsaḥ | asya | vi | tiranti | kāmam | prati-dīvne | dadhataḥ | ā | kṛtāni