Sukta 10.34
यदादीध्ये न दविषाण्येभिः परायद्भ्योऽव हीये सखिभ्यः । न्युप्ताश्च बभ्रवो वाचमक्रतँ एमीदेषां निष्कृतं जारिणीव ॥
यदा॒दीध्ये॒ न द॑विषाण्येभिः परा॒यद्भ्योऽव॑ हीये॒ सखि॑भ्यः । न्यु॑प्ताश्च ब॒भ्रवो॒ वाच॒मक्र॑तँ॒ एमीदे॑षां निष्कृ॒तं जा॒रिणी॑व ॥
yadā́dīdhye ná daviṣāṇy ebhíḥ parāyád-bhyo’vá hīye sakhíbhyáḥ | nyùptāś ca babhrávo vā́cam ákratam émīd eṣāṃ niṣkṛtáṃ jā́riṇīva ||
When I burn with desire and cannot win by these, I fall away from friends who depart. Cast down, the brown ones have made their speech; I go seeking their release, like a woman driven out, searching a way back.
यत् । आ॒ऽदी॒ध्ये॒ । न । द॒वि॒षा॒णि॒ । ए॒भिः॒ । प॒रा॒यत्ऽभ्यः॑ । अव॑ । हीये॑ । सखि॑ऽभ्यः । निऽउ॑प्ताः । च॒ । ब॒भ्रवः॑ । वाच॑म् । अक्र॑त । एमि॑ । इत् । ए॒षा॒म् । निः॒ऽकृ॒तम् । जा॒रिणी॑ऽइव ॥यत् । आदीध्ये । न । दविषाणि । एभिः । परायत्भ्यः । अव । हीये । सखिभ्यः । निउप्ताः । च । बभ्रवः । वाचम् । अक्रत । एमि । इत् । एषाम् । निःकृतम् । जारिणीइव ॥yat | ādīdhye | na | daviṣāṇi | ebhiḥ | parāyat-bhyaḥ | ava | hīye | sakhi-bhyaḥ | ni-uptāḥ | ca | babhravaḥ | vācam | akrata | emi | it | eṣām | niḥ-kṛtam | jāriṇī-iva