Sukta 10.34
अन्ये जायां परि मृशन्त्यस्य यस्यागृधद्वेदने वाज्यक्षः । पिता माता भ्रातर एनमाहुर्न जानीमो नयता बद्धमेतम् ॥
अ॒न्ये जा॒यां परि॑ मृशन्त्यस्य॒ यस्यागृ॑ध॒द्वेद॑ने वा॒ज्य१॒॑क्षः । पि॒ता मा॒ता भ्रात॑र एनमाहु॒र्न जा॑नीमो॒ नय॑ता ब॒द्धमे॒तम् ॥
ánye jāyā́m pári mṛśanty asya yásyā́gṛdhad védane vājí akṣáḥ | pitā́ mātā́ bhrā́tara enam āhur ná jānīmo náyata baddhám etám ||
Others touch and take his wife about him—his, whom the eager dice has seized for the winning. Father, mother, brothers say of him: ‘We do not know him; lead him away, bound.’
अ॒न्ये । जा॒याम् । परि॑ । मृ॒श॒न्ति॒ । अ॒स्य॒ । यस्य॑ । अगृ॑धत् । वेद॑ने । वा॒जी । अ॒क्षः । पि॒ता । मा॒ता । भ्रात॑रः । ए॒न॒म् । आ॒हुः॒ । न । जा॒नी॒मः॒ । नय॑त । ब॒द्धम् । ए॒तम् ॥अन्ये । जायाम् । परि । मृशन्ति । अस्य । यस्य । अगृधत् । वेदने । वाजी । अक्षः । पिता । माता । भ्रातरः । एनम् । आहुः । न । जानीमः । नयत । बद्धम् । एतम् ॥anye | jāyām | pari | mṛśanti | asya | yasya | agṛdhat | vedane | vājī | akṣaḥ | pitā | mātā | bhrātaraḥ | enam | āhuḥ | na | jānīmaḥ | nayata | baddham | etam